|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.119. अध्यायः 119
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति इन्द्रस्य वत्सभावेन सुरभ्याः क्षीरपानादमरत्वादिलाभकथनम्॥ 1 ॥ तथा इन्द्रदिदेवानां वासार्थं सुरभेरनुमत्या तदीयमुखाद्यवयवसमाश्रयणकथनम्॥ 2 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`युधिष्ठिर उवाच।
सुरभ्यास्तु तदा देव्याः कीर्तिर्लक्ष्मीः सरस्वती।
मेधा च प्रवरा देवी याश्चतस्रोऽभिविश्रुताः॥ 13-119-1(86078)
पृथग्गोभ्यः किमेताः स्युरुताहो गोषु संश्रिताः।
देवाः के वाऽऽश्रिता गोषु तन्मे ब्रूहि पितामह॥ 13-119-2(86079)
भीष्म उवाच। 13-119-3x(7128)
यं देवं संश्रिता गावस्तं देवं देवसंज्ञितम्।
यद्यद्देवाश्रितं दैवं तत्तद्दैवं द्विजा विदुः॥ 13-119-3(86080)
सर्वेषामेव देवानां पूर्वं किल समुद्भवे।
अमृतार्थे सुरपतिः सुरभिं समुपस्थितः॥ 13-119-4(86081)
इन्द्र उवाच। 13-119-5x(7129)
इच्छेयममृतं दत्तं त्वया देवि रसाधिकम्।
त्वत्प्रसादाच्छिवं मह्यममरत्वं भवेदिति॥ 13-119-5(86082)
सुरभिरुवाच। 13-119-6x(7130)
वत्सो भूत्वा सुपरते पिबस्व प्रस्रवं मम।
ततोऽमरत्वमपि तस्थानमैन्द्रमवाप्स्यसि॥ 13-119-6(86083)
न च ते वृत्रहन्युद्धे व्यथाऽरिभ्यो भविष्यति।
बलार्थमात्मनः शक्र प्रस्रवं पिब मे विभो॥ 13-119-7(86084)
भीष्म उवाच। 13-119-8x(7131)
ततोऽपिबत्स्नं तस्याः सुरभ्याः सुरसत्तमः।
अमरत्वं सुरूपत्वं बलं चापदनुत्तमम्॥ 13-119-8(86085)
पुरंदरोऽमृतं पीत्वा प्रहृष्टः समुपस्थितः।
पुत्रोऽहं तव भद्रं ते ब्रूहि किं करवाणि ते॥ 13-119-9(86086)
सुरभिरुवाच। 13-119-10x(7132)
कृतं पुत्र त्वया सर्वमुपयाहि त्रिविष्टपम्।
पालयस्व सुरान्सर्वाञ्जहि ये सुरशत्रवः॥ 13-119-10(86087)
न च गोब्राह्मणेऽवज्ञा कार्या ते शान्तिमिच्छता।
गोब्राह्मणस्य निश्वासः शोषयेदपि देवताः॥ 13-119-11(86088)
गोब्राह्मणप्रियो नित्यं स्वस्तिशब्दमुदाहरन्।
पृथिव्यामन्तरिक्षे च नाकपृष्ठे च विक्रमेत्॥ 13-119-12(86089)
यच्च तेऽन्यद्भवेत्कृत्यं तन्मे ब्रूयाः समासतः।
तत्ते सर्वं करिष्यामि सत्येनैतद्ब्रवीमि ते॥ 13-119-13(86090)
इन्द्र उवाच। 13-119-14x(7133)
इच्छेयं गोषु नियतं वस्तुं देवि ब्रवीमि ते।
एभिः सुरगणैः सार्धं ममानुग्रहमाचर॥ 13-119-14(86091)
सुरभिरुवाच। 13-119-15x(7134)
गवां शरीरं प्रत्यक्षमेतत्कौशिक लक्ष्ये।
यो यत्रोत्सहते वस्तुं स तत्र वसतां सुरः॥ 13-119-15(86092)
सर्वं पवित्रं परमं गवां गात्रं सुपूजितम्।
तथा कुरुष्व भद्रं ते यथा त्वं शक्र मन्यसे॥ 13-119-16(86093)
भीष्म उवाच। 13-119-17x(7135)
तस्यास्तद्वचनं श्रुत्वा सुरभ्याः सुरसत्तमः।
सह सर्वैः सुरगणैरभजत्सौरभीं प्रजाम्॥ 13-119-17(86094)
शृङ्गे वक्त्रे च जिह्वायां देवराजः समाविशत्।
सर्वच्छिद्रेषु पवनः पादेषु मरुतां गणाः॥ 13-119-18(86095)
ककुदं सर्वगो रुद्रः कुक्षौ चैव हुताशनः।
सरस्वती स्तनेष्वग्र्या श्रीः पुरीषे जगत्प्रिया॥ 13-119-19(86096)
मूत्रे कीर्तिश्च गङ्गा च मेधा पयसि शाश्वती।
वक्त्रे सोमश्च वै देवो हृदये भगवान्यमः॥ 13-119-20(86097)
धर्मः पुच्छे क्रिया लोम्नि भास्करश्चक्षुषी श्रितः।
सिद्धाः सन्धिषु सिद्धिश्च तपस्तेजश्च चेष्टने॥ 13-119-21(86098)
एवं सर्वे सुरगणा नियता गात्रवर्त्मसु।
महती देवता गावो ब्राह्मणैः परिसंस्कृताः॥ 13-119-22(86099)
गामाश्रयन्ति सहिता देवा हि प्रभविष्णवः।
किमासां सर्वभावेन विदध्याद्भगवान्प्रियम्॥ 13-119-23(86100)
भवांश्च परया भक्त्या पूजयस्व नरेश्वर।
गावस्तु परमं लोके पवित्रं पावनं हविः॥ 13-119-24(86101)
निपात्य भक्षितः स्वर्गाद्भार्गवः फेनपः किल।
स च प्राणान्पुनर्लब्ध्वा ततो गोलोकमाश्रितः॥' ॥ 13-119-25(86102)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः॥ 119 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|